ऋषिः - शन्तातिः

देवता - चन्द्रमाः, आपः

छन्दः - त्रिष्टुप्

स्वरः - आपः सूक्त

PreviousNext
स्वर सहित मन्त्र

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे। घृ॑त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥

स्वर सहित पद पाठ

शि॒वेन॑ । मा॒ । चक्षु॑षा । प॒श्य॒त॒ । आ॒प॒ः । शि॒वया॑ । त॒न्वा । उप॑ । स्पृ॒श॒त॒ । त्वच॑म् । मे॒ । घृ॒त॒ऽश्चुत॑ः । शुच॑यः । याः । पा॒व॒काः । ताः । न॒ः । आप॑ः । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥


स्वर रहित मन्त्र

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे। घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥


स्वर रहित पद पाठ

शिवेन । मा । चक्षुषा । पश्यत । आपः । शिवया । तन्वा । उप । स्पृशत । त्वचम् । मे । घृतऽश्चुतः । शुचयः । याः । पावकाः । ताः । नः । आपः । शम् । स्योनाः । भवन्तु ॥