ऋषिः - शन्तातिः

देवता - चन्द्रमाः, आपः

छन्दः - त्रिष्टुप्

स्वरः - आपः सूक्त

PreviousNext
स्वर सहित मन्त्र

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम्। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥

स्वर सहित पद पाठ

यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ स॒त्य॒ऽअ॒नृ॒ते । अ॒व॒ऽपश्य॑न् । जना॑नाम् । याः । अ॒ग्निम् । गर्भ॑म् । द॒धि॒रे । सु॒ऽवर्णा॑ः । ताः । न॒ः । आप॑ः । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥


स्वर रहित मन्त्र

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्। या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥


स्वर रहित पद पाठ

यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति सत्यऽअनृते । अवऽपश्यन् । जनानाम् । याः । अग्निम् । गर्भम् । दधिरे । सुऽवर्णाः । ताः । नः । आपः । शम् । स्योनाः । भवन्तु ॥