ऋषिः - ब्रह्मा

देवता - आशापाला वास्तोष्पतयः

छन्दः - विराडनुष्टुप

स्वरः - पाशविमोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि। य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमे॒ह व॑क्षत् ॥

स्वर सहित पद पाठ

अस्रा॑मः । त्वा॒ । ह॒विषा॑ । य॒जा॒मि॒ । अश्रो॑णः । त्वा॒ । घृ॒तेन॑ । जु॒हो॒मि॒ ।यः । आशा॑नाम् । आ॒शा॒ऽपा॒लः । तु॒रीय॑ः । दे॒वः । सः । न॒ः । सु॒ऽभू॒तम् । आ । इ॒ह । व॒क्ष॒त् ॥


स्वर रहित मन्त्र

अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि। य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ॥


स्वर रहित पद पाठ

अस्रामः । त्वा । हविषा । यजामि । अश्रोणः । त्वा । घृतेन । जुहोमि ।यः । आशानाम् । आशाऽपालः । तुरीयः । देवः । सः । नः । सुऽभूतम् । आ । इह । वक्षत् ॥