ऋषिः - अथर्वा

देवता - विश्वे देवाः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायुप्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः। येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान्वो॑ अ॒स्मै स॑त्र॒सदः॑ कृणोमि ॥

स्वर सहित पद पाठ

येषा॑म् । प्र॒ऽया॒जाः । उ॒त । वा॒ । अ॒नु॒ऽया॒जाः । हु॒तऽभा॑गाः । अ॒हु॒त॒ऽअद॑ः । च॒ । देवाः । येषा॑म् । व॒ः । पञ्च॑ । प्र॒ऽदिश॑ः । विऽभ॑क्ताः । तान् । व॒ः । अ॒स्मै । स॒त्र॒ऽसद॑ः । कृ॒णो॒मि॒ ॥


स्वर रहित मन्त्र

येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः। येषां वः पञ्च प्रदिशो विभक्तास्तान्वो अस्मै सत्रसदः कृणोमि ॥


स्वर रहित पद पाठ

येषाम् । प्रऽयाजाः । उत । वा । अनुऽयाजाः । हुतऽभागाः । अहुतऽअदः । च । देवाः । येषाम् । वः । पञ्च । प्रऽदिशः । विऽभक्ताः । तान् । वः । अस्मै । सत्रऽसदः । कृणोमि ॥