ऋषिः - अथर्वा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
स्वरः - दीर्घायुप्राप्ति सूक्त
ये । व॒ः । दे॒वा॒ः । पि॒तर॑ः । ये । च॒ । पु॒त्राः । सऽचे॑तसः । मे॒ । शृ॒णु॒त॒ । इ॒दम् । उ॒क्तम् ।सर्वे॑भ्यः । व॒ः । परि॑ । द॒दा॒मि॒ । ए॒तम् । स्व॒स्ति । ए॒न॒म् । ज॒रसे॑ । व॒हा॒थ॒ ॥
ये । वः । देवाः । पितरः । ये । च । पुत्राः । सऽचेतसः । मे । शृणुत । इदम् । उक्तम् ।सर्वेभ्यः । वः । परि । ददामि । एतम् । स्वस्ति । एनम् । जरसे । वहाथ ॥