ऋषिः - वसिष्ठः

देवता - अभीवर्तमणिः, ब्रह्मणस्पतिः

छन्दः - अनुष्टुप्

स्वरः - राष्ट्र अभिवर्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑भीव॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः। रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥

स्वर सहित पद पाठ

अ॒भि॒ऽव॒र्तः । अ॒भि॒ऽभ॒वः । स॒प॒त्न॒ऽक्षय॑णः । म॒णिः । रा॒ष्ट्रा॒य॑ । मह्य॑म् । ब॒ध्य॒ता॒म् । स॒ऽपत्ने॑भ्यः । प॒रा॒ऽभुवे॑ ॥


स्वर रहित मन्त्र

अभीवर्तो अभिभवः सपत्नक्षयणो मणिः। राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥


स्वर रहित पद पाठ

अभिऽवर्तः । अभिऽभवः । सपत्नऽक्षयणः । मणिः । राष्ट्राय । मह्यम् । बध्यताम् । सऽपत्नेभ्यः । पराऽभुवे ॥