ऋषिः - चातनः

देवता - यातुधानी

छन्दः - पथ्यापङ्क्तिः

स्वरः - रक्षोघ्न सूक्त

PreviousNext
स्वर सहित मन्त्र

पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्य॑म्। अधा॑ मि॒थो वि॑के॒श्यो॑३ वि घ्न॑तां यातुधा॒न्यो॑३ वि तृ॑ह्यन्तामरा॒य्यः॑ ॥

स्वर सहित पद पाठ

पु॒त्रम् । अ॒त्तु॒ । या॒तु॒ऽधा॒नीः । स्वसा॑रम् । उ॒त । न॒प्त्यम् । अध॑ । मि॒थः । वि॒ऽके॒श्यः । वि । घ्न॒ता॒म् । या॒तु॒ऽधा॒न्यः । वि । तृ॒ह्य॒न्ता॒म् । अ॒रा॒य्यः ॥


स्वर रहित मन्त्र

पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम्। अधा मिथो विकेश्यो३ वि घ्नतां यातुधान्यो३ वि तृह्यन्तामराय्यः ॥


स्वर रहित पद पाठ

पुत्रम् । अत्तु । यातुऽधानीः । स्वसारम् । उत । नप्त्यम् । अध । मिथः । विऽकेश्यः । वि । घ्नताम् । यातुऽधान्यः । वि । तृह्यन्ताम् । अराय्यः ॥