atharvaveda/1/26/2

सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑। स॑वि॒ता चि॒त्ररा॑धाः ॥

सखा॑ । अ॒सौ । अ॒स्मभ्य॑म् । अ॒स्तु॒ । रा॒ति: । सखा॑ । इन्द्र॑: । भग॑: । स॒वि॒ता । चि॒त्रऽरा॑धा: ॥

ऋषिः - ब्रह्मा

देवता - सविता, भग इन्द्रः

छन्दः - एकावसाना त्रिपदा साम्नी त्रिष्टुप्

स्वरः - सुख प्राप्ति सूक्त

स्वर सहित मन्त्र

सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑। स॑वि॒ता चि॒त्ररा॑धाः ॥

स्वर सहित पद पाठ

सखा॑ । अ॒सौ । अ॒स्मभ्य॑म् । अ॒स्तु॒ । रा॒ति: । सखा॑ । इन्द्र॑: । भग॑: । स॒वि॒ता । चि॒त्रऽरा॑धा: ॥


स्वर रहित मन्त्र

सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः। सविता चित्रराधाः ॥


स्वर रहित पद पाठ

सखा । असौ । अस्मभ्यम् । अस्तु । राति: । सखा । इन्द्र: । भग: । सविता । चित्रऽराधा: ॥