ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनोऽग्निः

छन्दः - पुरोऽनुष्टुप् त्रिष्टुप्

स्वरः - ज्वरनाशक सूक्त

PreviousNext
स्वर सहित मन्त्र

नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि। यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥

स्वर सहित पद पाठ

नम॑ः । शी॒ताय॑ । त॒क्मने॑ । नम॑ः । रू॒राय॑ । शो॒चिषे॑ । कृ॒णो॒मि॒ । यः । अ॒न्ये॒द्युः । उ॒भ॒य॒ऽद्युः । अ॒भि॒ऽएति॑ । तृती॑यकाय । नम॑ः । अ॒स्तु । त॒क्मने॑ ॥


स्वर रहित मन्त्र

नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि। यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥


स्वर रहित पद पाठ

नमः । शीताय । तक्मने । नमः । रूराय । शोचिषे । कृणोमि । यः । अन्येद्युः । उभयऽद्युः । अभिऽएति । तृतीयकाय । नमः । अस्तु । तक्मने ॥