ऋषिः - भृग्वङ्गिराः
देवता - यक्ष्मनाशनोऽग्निः
छन्दः - विराड्गर्भा त्रिष्टुप्
स्वरः - ज्वरनाशक सूक्त
यदि॑ । शो॒कः । यदि॑ । वा॒ । अ॒भि॒ऽशो॒कः । यदि॑ । वा॒ । राज्ञ॑ः । वरु॑णस्य । असि॑ । पु॒त्रः ।ह्रुडु॑ः । नाम॑ । अ॒सि॒ । ह॒रि॒त॒स्य॒ । दे॒व॒ । सः । न॒ः । स॒म्ऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥
यदि । शोकः । यदि । वा । अभिऽशोकः । यदि । वा । राज्ञः । वरुणस्य । असि । पुत्रः ।ह्रुडुः । नाम । असि । हरितस्य । देव । सः । नः । सम्ऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥