ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनोऽग्निः

छन्दः - विराड्गर्भा त्रिष्टुप्

स्वरः - ज्वरनाशक सूक्त

PreviousNext
स्वर सहित मन्त्र

यद्य॒र्चिर्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥

स्वर सहित पद पाठ

यदि॑ । अ॒र्चिः । यदि॑ । वा॒ । असि॑ । शो॒चिः । श॒क॒ल्य॒ऽए॒षि । यदि॑ । वा॒ । ते॒ । ज॒नित्र॑म् । ह्रुडु॑ः । नाम॑ । अ॒सि॒ । ह॒रि॒त॒स्य॒ । दे॒व॒ । सः । न॒ः । स॒म्ऽवि॒द्वान् । परि॑ । वृ॒ङग्धि॒ । त॒क्म॒न् ॥


स्वर रहित मन्त्र

यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम्। ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान्परि वृङ्ग्धि तक्मन् ॥


स्वर रहित पद पाठ

यदि । अर्चिः । यदि । वा । असि । शोचिः । शकल्यऽएषि । यदि । वा । ते । जनित्रम् । ह्रुडुः । नाम । असि । हरितस्य । देव । सः । नः । सम्ऽविद्वान् । परि । वृङग्धि । तक्मन् ॥