ऋषिः - ब्रह्मा

देवता - हरिमा

छन्दः - अनुष्टुप्

स्वरः - हृद्रोगकामलाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

या रोहि॑णीर्देव॒त्या॑३ गावो॒ या उ॒त रोहि॑णीः। रू॒पंरू॑पं॒ वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥

स्वर सहित पद पाठ

याः । रोहि॑णीः । दे॒व॒त्याः । गाव॑ः । याः । उ॒त । रोहि॑णीः ।रू॒पम्ऽरू॑पम् । वय॑ःऽवयः । ताभि॑ः । त्वा॒ । परि॑ । द॒ध्म॒सि॒ ॥


स्वर रहित मन्त्र

या रोहिणीर्देवत्या३ गावो या उत रोहिणीः। रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥


स्वर रहित पद पाठ

याः । रोहिणीः । देवत्याः । गावः । याः । उत । रोहिणीः ।रूपम्ऽरूपम् । वयःऽवयः । ताभिः । त्वा । परि । दध्मसि ॥