ऋषिः - ब्रह्मा

देवता - ईश्वरः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥

स्वर सहित पद पाठ

यः । स॒ऽपत्न॑ः । यः । अस॑पत्नः । यः । च॒ । द्वि॒षन् । शपा॑ति । न॒ः । दे॒वाः । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥


स्वर रहित मन्त्र

यः सपत्नो यो ऽसपत्नो यश्च द्विषन्छपाति नः। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥


स्वर रहित पद पाठ

यः । सऽपत्नः । यः । असपत्नः । यः । च । द्विषन् । शपाति । नः । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥