atharvaveda/1/16/3

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑। अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥

इ॒दम् । विऽस्क॑न्धम् । स॒ह॒ते॒ । इ॒दम् । बा॒ध॒ते॒ । अ॒त्त्रिण॑: । अ॒नेन॑ । विश्वा॑ । स॒स॒हे॒ । या । जा॒तानि॑ । पि॒शा॒च्या: ॥

ऋषिः - चातनः

देवता - वरुणः

छन्दः - अनुष्टुप्

स्वरः - शत्रुबाधन सूक्त

स्वर सहित मन्त्र

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑। अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥

स्वर सहित पद पाठ

इ॒दम् । विऽस्क॑न्धम् । स॒ह॒ते॒ । इ॒दम् । बा॒ध॒ते॒ । अ॒त्त्रिण॑: । अ॒नेन॑ । विश्वा॑ । स॒स॒हे॒ । या । जा॒तानि॑ । पि॒शा॒च्या: ॥


स्वर रहित मन्त्र

इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः। अनेन विश्वा ससहे या जातानि पिशाच्याः ॥


स्वर रहित पद पाठ

इदम् । विऽस्कन्धम् । सहते । इदम् । बाधते । अत्त्रिण: । अनेन । विश्वा । ससहे । या । जातानि । पिशाच्या: ॥