ऋषिः - भृग्वङ्गिराः
देवता - विद्युत्
छन्दः - त्रिष्टुप् पराबृहतीगर्भा पङ्क्तिः
स्वरः - विद्युत सूक्त
याम् । त्वा॒ । दे॒वाः । असृ॑जन्त । विश्वे॑ । इषु॑म् । कृ॒ण्वा॒नाः । अस॑नाय । धृ॒ष्णुम् ।सा । न॒ः । मृ॒ड॒ । वि॒दधे॑ । गृ॒णा॒ना । तस्यै॑ । ते॒ । नम॑ः । अ॒स्तु॒ । दे॒वि॒ ॥
याम् । त्वा । देवाः । असृजन्त । विश्वे । इषुम् । कृण्वानाः । असनाय । धृष्णुम् ।सा । नः । मृड । विदधे । गृणाना । तस्यै । ते । नमः । अस्तु । देवि ॥