ऋषिः - भृग्वङ्गिराः

देवता - यक्ष्मनाशनम्

छन्दः - त्रिष्टुप्

स्वरः - यक्ष्मनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य। यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥

स्वर सहित पद पाठ

मु॒ञ्च । शी॒र्ष॒क्त्याः । उ॒त । का॒सः । ए॒न॒म् । परु॑ःऽपरु । आ॒ऽवि॒वेश॑ । यः । अ॒स्य॒ । यः । अ॒भ्र॒ऽजाः । वा॒त॒ऽजाः । यः । च॒ । शुष्म॑ः । वन॒स्पती॑न् । स॒च॒ता॒म् । पर्व॑तान् । च॒ ॥


स्वर रहित मन्त्र

मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य। यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥


स्वर रहित पद पाठ

मुञ्च । शीर्षक्त्याः । उत । कासः । एनम् । परुःऽपरु । आऽविवेश । यः । अस्य । यः । अभ्रऽजाः । वातऽजाः । यः । च । शुष्मः । वनस्पतीन् । सचताम् । पर्वतान् । च ॥